तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते उभे ते परमेशस्य रूपे तस्य वशे यतः
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम्
वदंति मुनयः केचिच्छिवं परमकारणम् समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् तयोः कारणभावेन शिवं परमकारणम्
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम्
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः कालः कार्यप्रपञ्चस्य परिणामैककारणम्
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः आविर्भावतिरोभावहेतुरेकः स्वराडजः
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट्
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः माता मानं च मेयं च मतिं चाहुरथापरे
कर्ता क्रिया च कार्यं च करणं कारणं परे जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः
केचित्संसारिणं प्राहुस्तमसंसारिणं परे स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः रागवंतं परे प्राहुर्वीतरागं तथा परे
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते अरूपं केचिदाहुर्वै रूपवंतं परे विदुः
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे
केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे
केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन परमेके तमेवाहुरपरं च तथा परे
एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात्
ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ते हि जानंत्ययत्नेन शिवं परमकारणम्
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम्
नशिवस्याणवो बंधः कार्यो मायेय एव वा प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन