यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् तत्तदाह महाभागास्तयोस्तेजोविजृंभितम्
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत्
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः कथितं हि मया ते ऽद्य न तु तावदियत्तया
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः महतामपि सर्वेषां मनसो ऽपि बहिर्गतम्
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत्
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह अप्राकृती परा चैषा विभूतिः पारमेश्वरी
सैवेह परमं धाम सैवेह परमा गतिः सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा
संसाराशीविषालीढमृतसंजीवनौषधम् विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन व्याहरेदीशयोर्भूतिमिति वेदानुशासनम्
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात्
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम्
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम्
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् तदेवं न विजानंति पशवः पाशगौरवात्
तमेकमेव बहुधा वदंति यदुनंदन अजानन्तः परं भावमविकल्पं महर्षयः
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा केचिदाहुर्महादेवमनादिनिधनं परम्
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम्
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः
रूपमेव न संदेहो विश्वं तस्य वशे यतः भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते
विकल्परहितं तत्त्वं परमित्यभिधीयते वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः