रसजातं महादेवी देवो रसयिता शिवः प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी मंता स एव विश्वात्मा महादेवो महेश्वरः
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः
अहः शूलायुधो देवः शूलपाणिप्रिया निशा आकाशः शंकरो देवः पृथिवी शंकरप्रिया
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् तत्तदाह महाभागास्तयोस्तेजोविजृंभितम्
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत्
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः कथितं हि मया ते ऽद्य न तु तावदियत्तया
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः महतामपि सर्वेषां मनसो ऽपि बहिर्गतम्
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत्
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह अप्राकृती परा चैषा विभूतिः पारमेश्वरी
सैवेह परमं धाम सैवेह परमा गतिः सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा
संसाराशीविषालीढमृतसंजीवनौषधम् विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन व्याहरेदीशयोर्भूतिमिति वेदानुशासनम्
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात्
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम्