स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते
पुरुषः परमेशानः प्रकृतिः परमेश्वरी रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका
निरृतिर्भगवानीशो नैरृती नगनंदनी वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा
बालेंदुशेखरो वायुः शिवा शिवमनोहरा यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ईशानः परमेशानस्तदार्या परमेश्वरी
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा कालाग्निरुद्रः कालारिः काली कालांतकप्रिया
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः
कश्यपः कालहा देवो देवमाता महेश्वरी वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः
विषयी भगवानीशो विषयः परमेश्वरी श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः
रसजातं महादेवी देवो रसयिता शिवः प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी मंता स एव विश्वात्मा महादेवो महेश्वरः
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः
अहः शूलायुधो देवः शूलपाणिप्रिया निशा आकाशः शंकरो देवः पृथिवी शंकरप्रिया
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः