किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् कला या परमा शक्तिः कथिता परमात्मनः
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी शक्त्या परमया नुन्ना प्रसूते सकलं जगत्
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत्
यथा न जायते पुत्रः पितरं मातरं विना तथा भवं भवानीं च विना नैतच्चराचरम् स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते
पुरुषः परमेशानः प्रकृतिः परमेश्वरी रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका
निरृतिर्भगवानीशो नैरृती नगनंदनी वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा
बालेंदुशेखरो वायुः शिवा शिवमनोहरा यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ईशानः परमेशानस्तदार्या परमेश्वरी
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा कालाग्निरुद्रः कालारिः काली कालांतकप्रिया
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः
कश्यपः कालहा देवो देवमाता महेश्वरी वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः
विषयी भगवानीशो विषयः परमेश्वरी श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः