शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात्
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः या सा वर्णस्वरूपेण मातृकेपि विजृम्भते
अथानंतसमावेशान्माया कालमवासृजत् नियतिञ्च कलां विद्यां कलातोरागपूरुषौ
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् कला या परमा शक्तिः कथिता परमात्मनः
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी शक्त्या परमया नुन्ना प्रसूते सकलं जगत्
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत्
यथा न जायते पुत्रः पितरं मातरं विना तथा भवं भवानीं च विना नैतच्चराचरम् स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते
पुरुषः परमेशानः प्रकृतिः परमेश्वरी रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका
निरृतिर्भगवानीशो नैरृती नगनंदनी वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा
बालेंदुशेखरो वायुः शिवा शिवमनोहरा यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ईशानः परमेशानस्तदार्या परमेश्वरी
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा कालाग्निरुद्रः कालारिः काली कालांतकप्रिया