संजीवनं समस्तस्य जगतस्सलिलात्मिका भावीति गीयते मूर्तिभवस्य परमात्मनः
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः
सर्वावकाशदा सर्वव्यापिका गगनात्मिका मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति
आप्याययति यो विश्वममृतांशुर्निशाकरः महादेवस्य सा मूर्तिर्महादेवसमाह्वया
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम्
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत्
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा सर्वोपकारकरणं शिवस्याराधनं विदुः
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् भजस्व सर्वभावेन रुद्रः परमकारणम्
भगवन्परमेशस्य शर्वस्यामिततेजसः मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम्
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम्
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम्
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् द्वयं शुद्धमशुद्धं च परं चापरमेव च
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् तदेवाशुद्धमपरमितरं तु परं शुभम्
अपरं च परं चैव द्वयं चिदचिदात्मकम् शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ
यथा शिवस्तथा देवी यथा देवी तथा शिवः नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव
चंद्रो न खलु भात्येष यथा चंद्रिकया विना न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः
प्रभया हि विनायद्वद्भानुरेष न विद्यते प्रभा च भानुना तेन सुतरां तदुपाश्रया
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता न शिवेन विना शक्तिर्न शक्त्या च विना शिवः
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः समानधर्मिणीमेव शिवस्य परमात्मनः
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी विभज्य बहुधा विश्वं विदधाति शिवेच्छया
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता शिवया च विपर्यस्तं यया ततमिदं जगत्
एकधा च द्विधा चैव तथा शतसहस्रधा शक्तयः खलु भिद्यंते बहुधा व्यवहारतः