श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः
रमनायाश्च पायोश्च रसस्यापां तथैव च ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः
संजीवनं समस्तस्य जगतस्सलिलात्मिका भावीति गीयते मूर्तिभवस्य परमात्मनः
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः
सर्वावकाशदा सर्वव्यापिका गगनात्मिका मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति
आप्याययति यो विश्वममृतांशुर्निशाकरः महादेवस्य सा मूर्तिर्महादेवसमाह्वया
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम्
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत्
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा सर्वोपकारकरणं शिवस्याराधनं विदुः
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् भजस्व सर्वभावेन रुद्रः परमकारणम्
भगवन्परमेशस्य शर्वस्यामिततेजसः मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम्
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम्
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम्
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् द्वयं शुद्धमशुद्धं च परं चापरमेव च
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् तदेवाशुद्धमपरमितरं तु परं शुभम्
अपरं च परं चैव द्वयं चिदचिदात्मकम् शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः