प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम्
नमो निष्कलरूपाय नमो निष्कलतेजसे नमः सकलनाथाय नमस्ते सकलात्मने
प्रणववाच्याय नमः प्रणवलिंगिने नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखायते
पञ्चब्रह्मस्वरूपाय पञ्च कृत्यायते नमः आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये
सकलाकलरूपाय शंभवे गुरवे नमः इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश् च नेमतुः
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम्
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत्
सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा
आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे दर्शनं तु प्रभाते च प्रातःसंगवकालयोः
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते
लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः
लिंगमोंकारमंत्रेण बेरं पञ्चाक्षरेण तु स्वयमेव हि द्रव्यैः प्रतिष्ठाप्यं परैरपि
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् इति शास्य तथा शिष्यौ तत्रैवां ऽतर्हितः शिवः
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् कथं वा तत्समभ्यर्च्यं देशे काले च केन हि
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् पार्थिवेन तथाप्येनं तैजसेन यथारुचि
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम्
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम्
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् येन लिंगं तेन पीठं स्थावरे हि विशिष्यते
लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना लिंगप्रमाणं कर्त्ःणां द्वादशांगुलमुत्तमम्
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभो भूषिते
नवरत्नैश्च दिग्द्वारे च प्रधानकैः नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके
संपूज्य लिंगं सद्याद्यैः पञ्चस्थाने यथाक्रमम् अग्नौ च हुत्वा बहुधा हविषास कलं च माम्
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा
स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् उदीर्य च महामंत्रमोंकारं नादघोषितम्
लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत्