तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः तृणेनाभिहतं तेन तिर्यगग्रं पपात ह
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः
प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै
तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ततस्स पश्यतामेव तेषामंतरधादथ
तदंतरे हैमवती देवी दिव्यविभूषणा आविरासीन्नभोरंगे शोभमाना शुचिस्मिता
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम्
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते
इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम्
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम्
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम्
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति
धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः
रमनायाश्च पायोश्च रसस्यापां तथैव च ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः