निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः
यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः सृजत्यशेषमीशस्य शासनाच्चतुराननः
अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च विष्णुः पालयते विश्वं कालकालस्य शासनात्
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात्
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति कालः करोति सकलं कालस्संहरति प्रजाः
कालः पालयते विश्वं कालकालस्य शासनात् त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन्
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि
देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च
नद्यस्समुद्रा गिरयः काननानि सरांसि च वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः दिशश्च विदिशश्चैव कालभेदाः कलादयः
यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम्
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् असुरान्समरे जित्वा जेताहमहमित्युत
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत्
स तानाह सुरानेकं तृणमादाय भूतले य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित्
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः
न तत्तृणमुपदातुं मनसापि च शक्यते यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत्
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः तृणेनाभिहतं तेन तिर्यगग्रं पपात ह
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः
प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै
तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ततस्स पश्यतामेव तेषामंतरधादथ
तदंतरे हैमवती देवी दिव्यविभूषणा आविरासीन्नभोरंगे शोभमाना शुचिस्मिता
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम्
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते
इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः