किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा
एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे देव्यै देवेन कथितं ज्ञानं पाशुपतं परम्
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना पशुत्वं च सुरादीनां पतित्वं च शिवस्य च
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः प्रणिपत्य यथान्यायमिदं वचनमब्रवीत्
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम्
इति संचोदितः श्रीमानुपमन्युर्महात्मना प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः पशवः परिकीर्त्यंते संसारवशवर्तिनः
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः मलमायादिभिः पाशैः स बध्नाति पशून्पतिः
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम्
बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा
शासनाद्देवदेवस्य शिवस्य शिवदायिनः तन्मात्राण्यपि तस्यैव शासनेन महीयसा
महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम्
महाभूतान्यशेषाणि जनयंति शिवाज्ञया अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते
चित्तं चेतयते चापि मनः संकल्पयत्यपि श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक्
स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च
यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः
अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी अवकाशमशेषाणां भूतानां संप्रयच्छति
आकाशः परमेशस्य शासनादेव सर्वगः प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत्
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः हव्यं वहति देवानां कव्यं कव्याशिनामपि
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया आधिपत्यमपां नित्यं कुरुते वरुणस्सदा
पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम्