तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात्
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम्
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम्
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः श्रिया परमया युक्तस्सांबश्च सगणश्शिवः
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात्
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा
एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे देव्यै देवेन कथितं ज्ञानं पाशुपतं परम्
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना पशुत्वं च सुरादीनां पतित्वं च शिवस्य च
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः प्रणिपत्य यथान्यायमिदं वचनमब्रवीत्
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम्
इति संचोदितः श्रीमानुपमन्युर्महात्मना प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः पशवः परिकीर्त्यंते संसारवशवर्तिनः
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः मलमायादिभिः पाशैः स बध्नाति पशून्पतिः
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम्
बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा
शासनाद्देवदेवस्य शिवस्य शिवदायिनः तन्मात्राण्यपि तस्यैव शासनेन महीयसा
महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम्
महाभूतान्यशेषाणि जनयंति शिवाज्ञया अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते
चित्तं चेतयते चापि मनः संकल्पयत्यपि श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक्