वाचको ऽयमहं वाच्यो मंत्रो ऽयं हि मदात्मकः तदनुस्मरणं नित्यं ममानुस्मरणं भवेत्
अकारौत्तरात्पूर्वमुकारः पश्चिमाननात् मकारो दक्षिणमुखाद्बिंदुः प्राङ्मुखतस्तथा
नादो मध्यमुखादेवं पञ्चधा ऽसौ विजृंभितः एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत्
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः
अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्यतत् आकारादिक्रमेणैव नकारादियथाक्रमम्
अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि
वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत्
अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् निधाय तच्छीर्ष्णि करांबुजं शनैरुदङ्मुखं संस्थितयोः सहांबिकः
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत्
प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम्
नमो निष्कलरूपाय नमो निष्कलतेजसे नमः सकलनाथाय नमस्ते सकलात्मने
प्रणववाच्याय नमः प्रणवलिंगिने नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखायते
पञ्चब्रह्मस्वरूपाय पञ्च कृत्यायते नमः आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये
सकलाकलरूपाय शंभवे गुरवे नमः इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश् च नेमतुः
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम्
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत्
सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा
आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे दर्शनं तु प्रभाते च प्रातःसंगवकालयोः
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते
लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम् तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः
लिंगमोंकारमंत्रेण बेरं पञ्चाक्षरेण तु स्वयमेव हि द्रव्यैः प्रतिष्ठाप्यं परैरपि
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् इति शास्य तथा शिष्यौ तत्रैवां ऽतर्हितः शिवः
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् कथं वा तत्समभ्यर्च्यं देशे काले च केन हि
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् पार्थिवेन तथाप्येनं तैजसेन यथारुचि
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम्
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम्
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् येन लिंगं तेन पीठं स्थावरे हि विशिष्यते