सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत्
ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ययाचे स वरं विप्रो देवदेवान्महेश्वरात्
प्रसीद देवदेवेश प्रसीद परमेश्वर स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम्
श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः
देवदेव महादेव शरणागतवत्सल प्रसीद करुणासिंधो साम्ब शंकर सर्वदा
एवमुक्तो महादेवः सर्वेषां च वरप्रदः प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम्
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम उपकंठं मम त्वं वै सानन्दं विहरिष्यसि
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् जगाम जननीस्थानं सुखं प्रापाधिकं च सः
नमस्समस्तसंसारचक्रभ्रमणहेतवे गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम्
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा भगवंतमुपायांतं समीक्ष्य समुपाविशन्
अथासौ नियमस्यांते भगवानम्बरोद्भवः मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम्
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत्
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् विभूतिस्सकलं यस्य चराचरमिदं जगत्
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात्
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम्
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम्
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः निंदयन्निव मानुष्यं देहशुद्धिं चकार सः
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम्
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् रुद्राक्षमालाभरणं जटामंडलमंडितम्
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् शिवध्यानरतं शांतमुपमन्युं महाद्युतिम्
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च