मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च आज्यौदनार्णवश्चैव फलाद्यर्णव एव च
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने
पिता तव महादेवो माता वै जगदम्बिका अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम्
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत्
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम्
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम्
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः
अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम्
सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत्
ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ययाचे स वरं विप्रो देवदेवान्महेश्वरात्
प्रसीद देवदेवेश प्रसीद परमेश्वर स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम्
श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः
देवदेव महादेव शरणागतवत्सल प्रसीद करुणासिंधो साम्ब शंकर सर्वदा
एवमुक्तो महादेवः सर्वेषां च वरप्रदः प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम्
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम उपकंठं मम त्वं वै सानन्दं विहरिष्यसि
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् जगाम जननीस्थानं सुखं प्रापाधिकं च सः
नमस्समस्तसंसारचक्रभ्रमणहेतवे गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम्
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा भगवंतमुपायांतं समीक्ष्य समुपाविशन्
अथासौ नियमस्यांते भगवानम्बरोद्भवः मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम्
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत्
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् विभूतिस्सकलं यस्य चराचरमिदं जगत्