सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम्
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम्
नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत्
श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम्
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः
भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा
स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा वारयामास सौम्येन धारणां तस्य योगिनः
तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः
स्वं रूपमेव भगवानास्थाय परमेश्वरः दर्शयामास शिप्राय बालेन्दुकृतशेखरम्
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा अपूपानां गिरिं चैव दर्शयामास स प्रभुः
एवं स ददृशे देवो देव्या सार्धं वृषोपरि गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः
दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा
एतस्मिन्समये तत्र सस्मितो भगवान्भवः एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान्
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम
उपमन्यो महाभाग तवाम्बैषा हि पार्वती मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च आज्यौदनार्णवश्चैव फलाद्यर्णव एव च
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने
पिता तव महादेवो माता वै जगदम्बिका अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम्
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत्
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम्
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम्
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः
अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम्