अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः
अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् तत्रावाह्य महादेवं सांबं सगणमव्ययम्
भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः समभ्यर्च्य चिरं कालं चचार परमं तपः
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् उपमन्युं द्विजवरं शिवसंसक्तमानसम्
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन्
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन सदा नमः शिवायेति क्रोशति स्मार्तनादवत्
तन्नादश्रवणादेव तपसो विघ्नकारिणः ते तं बालं समुत्सृज्य मुनयस्समुपाचरन्
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः चराचरं च मुनयः प्रदीपितमभूज्जगत्
अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः क्षीरार्थमदहत्सर्वं तपसा तन्निवारय
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम्
तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान्
एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम्
रराज भगवान्सोमः शक्ररूपी सदाशिवः तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम्
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् प्रणम्य शिरसा प्राह महामुनिवरः स्वयम्
पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम
एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् प्राह गंभीरया वाचा शक्ररूपधरो हरः
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने
एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम्
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम्
त्वयैवं कथितं सर्वं भवनिंदारतेन वै प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम्