पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम्
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत्
शोकेनालमितो मतः सांबो यद्यस्ति शंकरः त्यज शोकं महाभागे सर्वं भद्रं भविष्यति
शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः प्रय्तुवाच तदा माता सुप्रसन्ना मनस्विनी
शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम्
सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः तं विनान्यं न जानीमश्शंकरं लोकशंकरम्
अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा तमेव सांबं सगणं भज भावपुरस्सरम्
तस्य देवाधिदेवस्य शिवस्य वरदायिनः साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः
सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः
सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा
प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम्
अधोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा
भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् विरजानलसंसिद्धं महाव्यापन्निवारणम्
मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया अनेनैवाशु जप्तेन रक्षा तव भविष्यति
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे तमाह च तदा माता शुभं कुर्वंतु ते सुराः
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः
अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् तत्रावाह्य महादेवं सांबं सगणमव्ययम्
भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः समभ्यर्च्य चिरं कालं चचार परमं तपः
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् उपमन्युं द्विजवरं शिवसंसक्तमानसम्
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन्
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन सदा नमः शिवायेति क्रोशति स्मार्तनादवत्
तन्नादश्रवणादेव तपसो विघ्नकारिणः ते तं बालं समुत्सृज्य मुनयस्समुपाचरन्
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः चराचरं च मुनयः प्रदीपितमभूज्जगत्
अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः