स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम्
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम्
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः दुग्धाभिलाषप्रभवद्वारतामगमत्तपः
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम्
तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात्
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम्
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम्
मातर्मातर्महाभागे मम देहि तपस्विनि गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम्
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा
उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः
स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः
तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी शान्तये तद्धठस्याथ शुभोपायमरीरचत्
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा बीजपिष्टमथालोड्य तोयेन कलभाषिणी
एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते
तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च
क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन्
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् प्रसादेन विना शंभो पयस्तव न विद्यते
पादपंकजयोस्तस्य साम्बस्य सगणस्य च भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम्
अधुना वसुदोस्माभिर्महादेवो न पूजितः सकामानां यथाकामं यथोक्तफलदायकः
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः