उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः
सामान्यमेतत्कथितं व्रतस्यास्य समासतः प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम्
वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम्
मासे भाद्रपदे चैव पद्मरागमयं परम् आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम्
कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके पुष्परागमयं पौषे माघे द्युमणिजन्तथा
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा सर्वमासेषु रत्नानामलाभे हैममेव वा
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा मृन्मयं वा यथालाभं जातुषं चान्यदेव वा
सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि व्रतावसानसमये समाचरितनित्यकः
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः
समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत्
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत्
यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः
सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा स एव तपतां श्रेष्ठ स एव च महाव्रती
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम्
यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात्
घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः
कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् शिवार्पितात्मा सततं न तेन सदृशः क्वचित्
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः
रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः
भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः
भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् भूतिभूतिकरी चैव रक्षा रक्षाकरी परम्
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत्
धौम्याग्रजेन शुशुना क्षीरार्थं हि तपः कृतम् तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना