ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि योगिनो हि सखास्सर्वे पतंगा मातरस्तथा
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत्
अथावरणपूजांते संपूज्य परमेश्वरम् साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत्
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः
नीराजनांते विस्तीर्य पूजाशेषं समापयेत् चषकं सोपकारं च शयनं च समर्पयेत्
चन्द्रसंकाशहारं च शयनीयं समर्पयेत् आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत्
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत्
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम्
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् स्वयं चानशने शक्तः फलमूलाशने ऽथ वा
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः
भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत्
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि
पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा
क्षमदानदयासत्याहिंसाशीलः सदा भवेत् संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा पूजां वैशेषिकीं चैव मनसा वचसा गिरा
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे
उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः
सामान्यमेतत्कथितं व्रतस्यास्य समासतः प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम्
वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम्
मासे भाद्रपदे चैव पद्मरागमयं परम् आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम्
कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके पुष्परागमयं पौषे माघे द्युमणिजन्तथा
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा सर्वमासेषु रत्नानामलाभे हैममेव वा
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा मृन्मयं वा यथालाभं जातुषं चान्यदेव वा
सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि व्रतावसानसमये समाचरितनित्यकः
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः