तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात्
प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः
पञ्चगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः
गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः सवेदिकं समालिप्य लिंगं भूषणभूषितम्
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः
पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः समभ्यर्च्य यथालाभं महापूजाविधानतः
धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् निवेदयित्वा विभवे कल्याणं च समाचरेत्
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः
श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात्
नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः पुष्पान्तरे न नियमो यथालाभं निवेदयेत्
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः चन्दनं वामदेवाख्ये हरितालं च पौरुषे
ईशाने भसितं केचिदालेपनमितीदृशाम् न धूपमिति मन्यन्ते धूपान्तरविधानतः सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः
पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः
शर्करामधुकर्पूरकपिलाघृतसंयुतम् चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम्
प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः
महादेवादयस्तत्र तथैकादशमूर्तयः चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा
ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि योगिनो हि सखास्सर्वे पतंगा मातरस्तथा
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत्
अथावरणपूजांते संपूज्य परमेश्वरम् साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत्
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः
नीराजनांते विस्तीर्य पूजाशेषं समापयेत् चषकं सोपकारं च शयनं च समर्पयेत्
चन्द्रसंकाशहारं च शयनीयं समर्पयेत् आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत्
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत्
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत