मदात्मकमिदं नित्यं मम सान्निध्यकारणम् महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः
यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ
मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः
सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम्
सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ
सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः
तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत्
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम्
तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा
तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते
अर्द्यते तेजसा सर्वं वायुना चापनीयते व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः
पञ्चकृत्यमिदं बोढुं ममास्ति मुखपञ्चकम् चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम्
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम्
तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम्
रूपे वेशे च कृत्ये च वाहने चासने तथा आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम्
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत्
तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमोंकारनामकम् इतः परं प्रजपतं मामकं मानभंजनम्
उपादिशं निजं मंत्रमोंकारमुरुमंगलम् ओंकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः
वाचको ऽयमहं वाच्यो मंत्रो ऽयं हि मदात्मकः तदनुस्मरणं नित्यं ममानुस्मरणं भवेत्
अकारौत्तरात्पूर्वमुकारः पश्चिमाननात् मकारो दक्षिणमुखाद्बिंदुः प्राङ्मुखतस्तथा
नादो मध्यमुखादेवं पञ्चधा ऽसौ विजृंभितः एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत्
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः
अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्यतत् आकारादिक्रमेणैव नकारादियथाक्रमम्
अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि
वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत्
अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम् निधाय तच्छीर्ष्णि करांबुजं शनैरुदङ्मुखं संस्थितयोः सहांबिकः
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम् शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत्