लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा योगं च परमं लब्ध्वा मुच्यते नात्र संशयः
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम्
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च
पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना
व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः यावच्छरीरपातं वा द्वादशाब्दमथापि वा
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा तदर्धं वा तदर्धं वा मासमेकमथापि वा
दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा तदर्धं दिनमेकं वा व्रतसंकल्पनावधि
अग्निमाधाय विधिवद्विरजाहोमकारणात् हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम्
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः
मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ रागो विद्याकले चैव नियतिः काल एव च
माया च शुद्धिविद्या च महेश्वरसदाशिवौ शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते
अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक्
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् दिने तस्मिन्निराहारः कालं शेषं समापयेत्
प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः
ततश्च जटिलो मुण्डी शिखैकजट एव वा भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः
अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् संकुलीकृत्य तद्भस्म विरजानलसंभवम्
अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् विभृज्यांगानि मूर्धादिचरणांतानि तैस्स्पृशेत्
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् शिवभावं समागम्य शिवयोगमथाचरेत्
कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत्
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् पूजनीयो महादेवो लिंगमूर्तिस्सनातनः
पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् कर्णिकाकेशरोपेतमासनं परिकल्पयेत्
विभवे तदभावे तु रक्तं सितमथापि वा पद्मं तस्याप्यभावे तु केवलं भावनामयम्