पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम्
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः त्रिविधोपाधिवचनाच्छिव एवानुवर्तते
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते
अथवाशेषकल्याणगुणैकधन ईश्वरः शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम्
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः रुद्र इत्युच्यते सद्भिः शिवः परमकारणम्
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि पितृभावेन सर्वेषां पितामह उदीरितः
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः
दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः
अणवो नैव जानन्ति माययैव मलावृताः असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम्
नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया
द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात्
शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः अवतार्य स्वमात्मानममृतात्माकृतिं हृदि
द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे समासीनं महादेवं शंकरम्भक्तवत्सलम्
अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्
ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत्
अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत्
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम्
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम्