परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः
अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः
स चायं परमो धर्मः परधर्मस्य साधनम् धर्मशास्त्रादिभिस्सम्यक् सांग एवोपबृंहितः
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः इतिहासपुराणाभ्यां कथंचिदुपबृंहितः
शैवागमैस्तु संपन्नः सहांगोपांविस्तरः तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः
स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते
युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः तत्संततीया गुरवः शतशो ऽथ सहस्रशः
तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम्
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते
नामाष्टकमयो योगश्शिवेन परिकल्पितः तेन योगेन सहसा शैवी प्रज्ञा प्रजायते
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम्
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् शिवापरोक्षात्संसारकारणेन वियुज्यते
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात्
संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम्
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः त्रिविधोपाधिवचनाच्छिव एवानुवर्तते
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते
अथवाशेषकल्याणगुणैकधन ईश्वरः शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम्
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः