अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम्
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता
एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् निदानभूतैस्संसाररोगः पुंसां प्रवर्तते
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् भिषगाज्ञापकः शम्भुश्शिवः परमकारणम्
अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः कथं दुःखं करोतीति नात्र कार्या विचारणा
दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत्
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः
न भिषक्कारणं रोगे शिवः संसारकारणम् इत्येतदपि वैषम्यं न दोषायास्य कल्पते
दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः स्वाभाविको मलः पुंसां स हि संसारयत्यमून्
संसारकारणं यत्तु मलं मायाद्यचेतनम् तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा
यथा मणिरयस्कांतस्सान्निध्यादुपकारकः अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः
न शिवेन विना किंचित्प्रवृत्तमिह विद्यते तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी तया ततमिदं शश्वत्तथापि स न दुष्यति
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति
यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः तच्छक्तिवैभवादेव तथापि स न दुष्यति
एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम्
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम्
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत्
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम्
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः
किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः
तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम्
परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः