शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः
मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ
काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि
शिवावेशवशादेव शिवत्वमुपचर्यते मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः न गुणाय न दोषाय शिवस्य गुणवृत्तयः
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः संसारमोचनं किं तु शैवमाज्ञामयं हितम्
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् स्वभावप्रतिबन्धं तत्समं न लभते हितम्
यथा विकासयत्येव रविः पद्मानि भानुभिः समं न विकसन्त्येव स्वस्वभावानुरोधतः
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत्
सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः एवं पक्वमलानेव मोचयेन्न शिवपरान्
यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत्
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् स हेतुरात्मनामेव निजो नागन्तुको मलः
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः
आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः
अन्तरात्मपदे केचित्केचिदात्मपदे तथा शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः
विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश
उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता
मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात्
पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् अत्रोत्तरा एकमला द्विमला मध्यमा मताः त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः
त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः
एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा