अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन्
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः इति निर्बंधयंत्येके नियमो नेति चापरे
निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः
उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते
सर्पस्या ऽ ऽस्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः
तस्माद् घृणा गुणायैव सर्वथेति न संमतम् संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम्
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः तथापि तेषामेवैते न शिवस्य तु सर्वथा अग्नावपि समाविष्टं ताम्रं खलु सकालिकम्
इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते
अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत्
शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः
मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ
काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि
शिवावेशवशादेव शिवत्वमुपचर्यते मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः न गुणाय न दोषाय शिवस्य गुणवृत्तयः
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः संसारमोचनं किं तु शैवमाज्ञामयं हितम्
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् स्वभावप्रतिबन्धं तत्समं न लभते हितम्
यथा विकासयत्येव रविः पद्मानि भानुभिः समं न विकसन्त्येव स्वस्वभावानुरोधतः
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत्
सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः एवं पक्वमलानेव मोचयेन्न शिवपरान्
यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत्
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् स हेतुरात्मनामेव निजो नागन्तुको मलः
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः