पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः
एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात्
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् साकारेणानुभावेन केनाप्यनुपलक्षितः
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् न तावतात्रोपेक्षाधीरुपलक्षणमंतरा
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम्
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः
लिंगादावपि तत्कृत्यमर्चायां च विशेषतः तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते
यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम्
लोकानुग्रहणायैव शिवेन परमेष्ठिना सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः
आत्मनामेव भोगाय मोक्षाय च विशेषतः तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः
सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात्
ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति
सदोषा एव देवाद्या निगृहीता यथोदितम् ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः न स चेदीशतां कुर्याज्जगतः कथमीश्वरः
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम्
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् निवर्तते च सामादेरंते दण्डो हि साधनम्
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् अतो यद्विपरीतं तदहितं संप्रचक्षते
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् स कथं दुष्यते सद्भिरसतामेव निग्रहात्
अयुक्तकारिणो लोके गर्हणीयाविवेकिता यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते
सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत्
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते