पीतामृतमिव स्नेहविवशेनान्तरात्मना देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् अनुभूय च तत्क्रीडां संभाव्य च परस्परम्
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् तवावतारो जगतां हितायेत्यनुशास्य च
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ततः शक्रेण संधाय बिभ्यता तारकासुरात्
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया
छेदितं तारकस्यापि शिरश्शक्रभिया सह स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः
तदागो ऽसहमानस्य देवदेवस्य शूलिनः पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः त्वरयागत्य देवेन पादांतं गमितोन्तकः
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत्
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः अंगहारस्वसेनेदमसकृच्चालितं जगत्
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत्
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् कारणं खलु कर्मापि भवेदीश्वरकारितम्
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् यथा ह्याशु निवर्तेत तथा कथय मारुत
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु
प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् असतां त्वन्यथाभावः प्रसादेन विना प्रभोः
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा न किंचिदपि कर्तव्यमिति साधु विनिश्चितम्
स्वभाव एव पर्याप्तः परानुग्रहकर्मणि अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः
एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात्
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् साकारेणानुभावेन केनाप्यनुपलक्षितः
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् न तावतात्रोपेक्षाधीरुपलक्षणमंतरा
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम्
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः