स्थोत्सवादिकल्याणं जनावासं तु सर्वतः अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत्
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम्
तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम्
अर्चयित्वा ऽत्र मामेव लिंगे लिंगिनमीश्वरम् सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च
सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम्
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम्
तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया तयोर्माढ्यं च वैरं च व्यपनेतुमुवाच तौ
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः
पुरस्तात्स्तंभरूपेण पश्चाद्रूपेण चार्भकौ ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् तस्मादीशत्वमन्येषां युवयोरपि न क्वचित्
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् तन्निराकर्तुमत्रैवमुत्थितो ऽहं रणक्षितौ
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते
गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम्
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम्
बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ
अनात्मानः परे सर्वे जीवा एव न संशयः अनुग्रहाद्यं सर्गांगं जगत्कृत्यं च पंकजम्
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम्
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात्
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम्
लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः
यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ
मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः
सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम्
सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ
सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः
तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत्
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम्
तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा