चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात्
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् वीरेण वीरभद्रेण न हि कश्चिददण्डितः
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम्
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् क्रोशतामेव देवानां हुतो नेत्रहुताशने
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम्
तमेव जलसंधायी शूलेनैव जघान सः तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम्
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम्
शुंभस्सह निशुंभेन प्रापितो मरणं रणे श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम्
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः रसां रसातलं नीतामिव कृत्वाभिधां ततः
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम्
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित्
संदीपयित्वा कालेन तस्य भासा दिशो दश रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा
ततश्चिरेण कालेन संजाते तत्र तेजसि कुमारे सुकुमारांगे कुमाराणां निदर्शने
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् सह देवसुरैर्लोकैर्विस्मिते च विमोहिते
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम्
पीतामृतमिव स्नेहविवशेनान्तरात्मना देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् अनुभूय च तत्क्रीडां संभाव्य च परस्परम्
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् तवावतारो जगतां हितायेत्यनुशास्य च
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ततः शक्रेण संधाय बिभ्यता तारकासुरात्
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया
छेदितं तारकस्यापि शिरश्शक्रभिया सह स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः
तदागो ऽसहमानस्य देवदेवस्य शूलिनः पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः त्वरयागत्य देवेन पादांतं गमितोन्तकः