स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् वृथा परिश्रमस्तस्य निरयायैव केवलम्
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया
नात्मनो नैव मायैषा न विकारो विचारतः न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः
स तयैव गृही सापि तेनैव गृहिणी सदा तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत्
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन अपरे तु परा शक्तिः शिवस्य समवायिनी
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया महामाया च माया च प्रकृतिस्त्रिगुणेति च
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत्
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः
चरितानि विचित्राणि गृह्याणि गहनानि च दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते चरितैः प्राकृतो भावस्तयोरपि विभाव्यते
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम्
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत्
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते परमापरमौ भावौ कथमेकत्र संगतौ
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि न करोति किमीशानो नित्यानित्यविपर्ययम्
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम्
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः अणिमादिगुणैश्वर्यवशीकारानतिक्रमात्
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा युध्यता समुपालब्धस्तद्रूपं दधता स्वयम्
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम्