मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात्
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक्
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः सोमनन्दीति विख्यातस्तस्मादेष समाख्यया
इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः
ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः
देवीं समादधानेन देवेनेदं किमीरितम् अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका
विद्युदादिमयन्तेजो मधुरादिमयो रसः तेजोरसविभेदैस्तु धृतमेतच्चराचरम्
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते अत एव हि विक्रान्तमग्नीषोमं जगद्धितम्
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत्
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत्
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत्
अतो मृत्युंजयायेत्थममृतप्लावनं सदा शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा षडध्ववेदनं सम्यक् समासान्न तु विस्तरात्
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया