अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम्
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत्
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् वागर्थमिव मे वैतज्जगत्स्थावरजंगमम्
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम्
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम्
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः
यदनर्थाय भूतानां न तदस्ति खलु त्वयि इति प्रियंवदे साक्षादीश्वरे परमेश्वरे
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम्
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम्
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया तादृशी कन्यका लोके न भूता न भविष्यति
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा शुंभस्य च निशुंभस्य मारणे च रणे तयोः
प्रत्यक्षफलदानं च लोकाय भजते सदा लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति
इति संभाषमाणाया देव्या एवाज्ञया तदा व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् व्याघ्रं पश्य न चानेन सदृशो मदुपासकः
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात्
स्वदेशं च परित्यज्य प्रसादार्थं समागतः यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात्
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक्
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः सोमनन्दीति विख्यातस्तस्मादेष समाख्यया
इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः
ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः
देवीं समादधानेन देवेनेदं किमीरितम् अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका