प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः येन प्रणयगर्भेण भावो भाववतां हृतः
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम्
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम्
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव तया संभाषणायेशः पूर्वभाषितमब्रवीत्
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते
स्वेच्छयापि न कालीति नान्यवर्णवतीति च त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम्
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम्
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत्
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् वागर्थमिव मे वैतज्जगत्स्थावरजंगमम्
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम्
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम्
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः
यदनर्थाय भूतानां न तदस्ति खलु त्वयि इति प्रियंवदे साक्षादीश्वरे परमेश्वरे
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम्
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम्
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया तादृशी कन्यका लोके न भूता न भविष्यति
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा शुंभस्य च निशुंभस्य मारणे च रणे तयोः
प्रत्यक्षफलदानं च लोकाय भजते सदा लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति
इति संभाषमाणाया देव्या एवाज्ञया तदा व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् व्याघ्रं पश्य न चानेन सदृशो मदुपासकः
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात्
स्वदेशं च परित्यज्य प्रसादार्थं समागतः यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर