अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति देवीं च मातरं दृष्ट्वा मेनां हिमवता सह
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ तपः प्रणयिनो देवी तपोवनमहीरुहान्
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः तत्तुच्छाखासमारूढविहगो दीरितै रुतैः
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् देहस्य प्रभया चैव दीपयन्ती दिशो दश
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः सर्वेषां जगतां धाता कर्ता पाता विनाशकृत्
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती
प्रवेशसमये तस्या भवनद्वारगोचरैः गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत्
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः येन प्रणयगर्भेण भावो भाववतां हृतः
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम्
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम्
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव तया संभाषणायेशः पूर्वभाषितमब्रवीत्
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते
स्वेच्छयापि न कालीति नान्यवर्णवतीति च त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम्
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम्
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत्
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् वागर्थमिव मे वैतज्जगत्स्थावरजंगमम्
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम्
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम्
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः
यदनर्थाय भूतानां न तदस्ति खलु त्वयि इति प्रियंवदे साक्षादीश्वरे परमेश्वरे