सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये प्रबलः केसरी दत्तो वाहनत्वे समागतः
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत्
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता
निहतौ च तया तत्र समरे दैत्यपुंगवौ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् तस्य प्रत्युपकाराय पितामहमथाब्रवीत्
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम्
मय्यर्पितमना एष भजते मामनन्यधीः अस्य संरक्षणादन्यत्प्रियं मम न विद्यते
भवितव्यमनेनातो ममान्तःपुरचारिणा गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन्
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः आशीविषमुखे साक्षादमृतं किं निषिच्यते
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् अशक्तः कर्मकरणे कर्ता वा किं करिष्यति
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम्
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः अनादिमध्यनिधना शक्तिराद्या सनातनी
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि