तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् न पृथग्जनवद्देवी स्वभावेन विविच्यते
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ममामिषं ततो नान्यदिति मत्वा निरन्तरम्
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् अतिष्ठदग्रतस्तस्या उपासनमिवाचरत्
देव्याश्च हृदये नित्यं ममैवायमुपासकः त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः सद्योपासक एवैष सिषेवे परमेश्वरीम्
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् स एव द्रावको भूत्वा विचचार तपोवने
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात्
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम्
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम्
ननाम चास्य जगतो मातरं स्वस्य वै हरेः रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम्
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत्
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च पप्रच्छ तपसो हेतुमजानन्निव पद्मजः
तीव्रेण तपसानेन देव्या किमिह साध्यते तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः
यश्चैव जगतां भर्ता तमेव परमेश्वरम् भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम्
अथवा सर्वमेवैतत्क्रीडाविलसितं तव इदन्तु चित्रं देवस्य विरहं सहसे कथम्
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् तदा पितामहस्त्वं मे जातो लोकपितामह
तदीदृशस्य भवतो लोकयात्राविधायिनः वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः
किमत्र बहुना देहे यश्चायं मम कालिमा त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे
एतावता किमर्थेन तीव्रं देवि तपः कृतम् स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै अतो ममेष्टमनया फलं किमपि साध्यताम्
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः काली कालाम्बुदप्रख्या कन्यका समपद्यत