एवमुक्तो महादेव्या वामदेवः स्मयन्निव न तां निर्बंधयामास देवकार्यचिकीर्षया
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम्
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः तमेव देशमवृनोत्तपसे प्रणयात्पुनः
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम्
संकल्प्य च महातीव्रं तपः परमदुश्चरम् सदा मनसि सन्धाय भर्तुश्चरणपंकजम्
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः
तथा तपश्चरन्तीं तां काले बहुतिथे गते दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत्
तथैवोपगतस्यापि तस्यातीवदुरात्मनः गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् न पृथग्जनवद्देवी स्वभावेन विविच्यते
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ममामिषं ततो नान्यदिति मत्वा निरन्तरम्
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् अतिष्ठदग्रतस्तस्या उपासनमिवाचरत्
देव्याश्च हृदये नित्यं ममैवायमुपासकः त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः सद्योपासक एवैष सिषेवे परमेश्वरीम्
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् स एव द्रावको भूत्वा विचचार तपोवने
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात्
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम्
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम्
ननाम चास्य जगतो मातरं स्वस्य वै हरेः रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम्
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत्
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च पप्रच्छ तपसो हेतुमजानन्निव पद्मजः
तीव्रेण तपसानेन देव्या किमिह साध्यते तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः
यश्चैव जगतां भर्ता तमेव परमेश्वरम् भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम्
अथवा सर्वमेवैतत्क्रीडाविलसितं तव इदन्तु चित्रं देवस्य विरहं सहसे कथम्
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः