पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् हारनूपुरकेयूरकिरीटमणिकुंडलैः
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः
धूपदीपसितच्छत्रव्यजनध्वजचामरैः अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम्
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान्
शिवरात्रावहोरात्रं निराहारो जितेंद्रियः अर्चयेद्वा यथान्यायं यथाबलमवंचकः
यत्फलं मम पूजायां वर्षमेकं निरंतरम् तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात्
मद्धर्मवृद्धिकालो ऽयं चंद्रकाल इवांबुधेः प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः
यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे अभ्यर्चनं चेदधिकं फलं वाचामगोचरम्
रणरंगतले ऽमुष्मिन्यदहं लिंगवर्ष्मणा जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत्
अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको
भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम्
अनलाचलसंकाशं यदिदं लिंगमुत्थितम् अरुणाचलमित्येव तदिदं ख्यातिमेष्यति
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् मुक्तिरप्यत्र जंतूनां वासेन मरणेन च
स्थोत्सवादिकल्याणं जनावासं तु सर्वतः अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत्
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम्
तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम्
अर्चयित्वा ऽत्र मामेव लिंगे लिंगिनमीश्वरम् सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च
सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम्
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम्
तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया तयोर्माढ्यं च वैरं च व्यपनेतुमुवाच तौ
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः
पुरस्तात्स्तंभरूपेण पश्चाद्रूपेण चार्भकौ ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् तस्मादीशत्वमन्येषां युवयोरपि न क्वचित्