ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात्
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् स्मयन्ती चाह भर्तारमसमाधेयया गिरा
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् एवावन्तं चिरं कालं कथमेषा नियम्यते
अरत्या वर्तमानो ऽपि कथं च रमसे मया न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम्
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम
माता त्वमस्य जगतः पिताहमधिपस्तथा कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम
आवयोरभिकामो ऽपि किमसौ कामकारितः यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः
पृथग्जनानां रतये कामात्मा कल्पितो मया ततः कथमुपालब्धः कामदाहादहं त्वया
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम्
स चायमचिरादर्थस्तवैवाविष्करिष्यते क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत्
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया येनैवमतिधीराहमपि प्रागभिवंचिता
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते
भूयसी च तवाप्रीतिरगौरमिति मे वपुः क्रीडोक्तिरपि कालीति घटते कथमन्यथा
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ममेच्छया स्वेच्छया वा वर्णान्तरवती भव
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम्
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा तमाहूय महादेवि तपसा किं करिष्यसि
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् गौरी भवितुमिच्छामि को दोषः कथ्यतामिह