गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः अजीर्णलावण्यतया जृंभमाण इवाचलः
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः रराम रमणीयासु देव्यान्तःपुरभूमिषु
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्टिना अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात्
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् स्मयन्ती चाह भर्तारमसमाधेयया गिरा
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् एवावन्तं चिरं कालं कथमेषा नियम्यते
अरत्या वर्तमानो ऽपि कथं च रमसे मया न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम्
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम
माता त्वमस्य जगतः पिताहमधिपस्तथा कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम
आवयोरभिकामो ऽपि किमसौ कामकारितः यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः
पृथग्जनानां रतये कामात्मा कल्पितो मया ततः कथमुपालब्धः कामदाहादहं त्वया
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम्
स चायमचिरादर्थस्तवैवाविष्करिष्यते क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत्