तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम्
जय शंकर देवेश दीनानाथ महाप्रभो कृपां कुरु महेशानापराधं नो क्षमस्व वै
मखपाल मखाधीश मखविध्वंसकारक कृपां कुरु मशानापराधं नः क्षमस्व वै
देवदेव परेशान भक्तप्राणप्रपोषक दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम्
अद्भुतं चरितं ते हि निश्चितं कृपया तव सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः
अन्तर्धानगतो देव्या सह सानुचरो हरः क्व यातः कुत्र वासः किं कृत्वा विरराम ह
महीधरवरः श्रीमान् मंदरश्चित्रकंदरः दयितो देवदेवस्य निवासस्तपसो ऽभवत्
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम्
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे पर्वतान्तरसौन्दर्यं साधारणविधारणात्
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता
अत एव हि देवेन देव्याः प्रियचिकीर्षया अतीव रमणीयोयं गिरिरन्तःपुरीकृतः
मेखलाभूमयस्तस्य विमलोपलपादपाः शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत्
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः
लताप्रतानजटिलैस्तरुभिस्तपसैरिव जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट्
अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम्