श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः
मेदुरं तारयामास सदारं च घृणानिधिः शारदां विधवां चक्रे सधवां क्रियया भवान्
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात्
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया
सर्वगर्वापहारी च सर्वतेजोविलासकः सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने
जय देव महादेव प्रणतार्तिविभंजन ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति
लब्धमानो भविष्यंति ये पुरा निहिता मृधे प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे
यदिदं देवदेवानां कृतमन्तुषु दूषणम् तदिदं भूषणं मन्येत अंगीकारगौरवात्
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना विलोक्य वदनं देव्या देवदेवस्स्मयन्निव
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम्
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु
जय देव जगन्नाथ लोकानुग्रहकारक कृपां कुरु महेशानापराधं मे क्षमस्व ह
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम्
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः
तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम्
जय शंकर देवेश दीनानाथ महाप्रभो कृपां कुरु महेशानापराधं नो क्षमस्व वै
मखपाल मखाधीश मखविध्वंसकारक कृपां कुरु मशानापराधं नः क्षमस्व वै
देवदेव परेशान भक्तप्राणप्रपोषक दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम्
अद्भुतं चरितं ते हि निश्चितं कृपया तव सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः