निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः अथाह देवः कितवं केतकं कूटसाक्षिणम्
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम्
इत्युक्ते तत्र देवेन केतकं देवजातयः सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया सफलं क्रियतां तात क्षम्यतां मम किल्बिषम्
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत्
तथा स्तुतस्तु भगवान्केतकेन सभातले न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः
मदीयास्त्वां धरिष्यंइ जन्म ते सफलं ततः त्वं वै वितानव्याजेन ममोपरि भविष्यसि
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ विरराज सभामध्ये सर्वदेवैरभिष्टुतः
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् हारनूपुरकेयूरकिरीटमणिकुंडलैः
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः
धूपदीपसितच्छत्रव्यजनध्वजचामरैः अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम्
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान्
शिवरात्रावहोरात्रं निराहारो जितेंद्रियः अर्चयेद्वा यथान्यायं यथाबलमवंचकः
यत्फलं मम पूजायां वर्षमेकं निरंतरम् तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात्
मद्धर्मवृद्धिकालो ऽयं चंद्रकाल इवांबुधेः प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः
यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे अभ्यर्चनं चेदधिकं फलं वाचामगोचरम्
रणरंगतले ऽमुष्मिन्यदहं लिंगवर्ष्मणा जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत्
अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको
भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम्
अनलाचलसंकाशं यदिदं लिंगमुत्थितम् अरुणाचलमित्येव तदिदं ख्यातिमेष्यति
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् मुक्तिरप्यत्र जंतूनां वासेन मरणेन च