तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत्
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना शमं जगाम संप्रीतो गणपस्तस्य गौरवात्
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये
कालाग्निरुद्ररूपाय कालकामांगहारिणे देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः शासिताः समरे वीर त्वया वयमनिन्दिता
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो त्वमेव गतिरस्माकं त्राहि नश्शरणागतान्
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः आनयद्देवदेवस्य समीपममरानिह
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम्
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम्
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः अनुग्रहार्थमेवेह धृतो दंडः कृपालुना
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम्
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः
सीमन्तिनी हतधवा तव पूजनतः प्रभो सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान्
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः
मेदुरं तारयामास सदारं च घृणानिधिः शारदां विधवां चक्रे सधवां क्रियया भवान्
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात्
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया
सर्वगर्वापहारी च सर्वतेजोविलासकः सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने
जय देव महादेव प्रणतार्तिविभंजन ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति
लब्धमानो भविष्यंति ये पुरा निहिता मृधे प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे
यदिदं देवदेवानां कृतमन्तुषु दूषणम् तदिदं भूषणं मन्येत अंगीकारगौरवात्