परिग्रस्तप्रजावर्गो भगवानिव भैरवः दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत्
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् गणेश्वरसमुत्पन्नं कृपणं वपुराददे
तदा त्रिदशवीराणामसृक्सलिलवाहिनी प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी
तस्मिन्महति संवृत्ते समरे भृशदारुणे भयेनेव परित्रस्ता प्रचचाल वसुन्धरा
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः सद्य एव शिरश्छेदस्साधु संपद्यते फलम्
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम्
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम्
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः बबन्धुः पाणिपादेषु कंधरेषूदरेषु च
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत्
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना शमं जगाम संप्रीतो गणपस्तस्य गौरवात्
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये
कालाग्निरुद्ररूपाय कालकामांगहारिणे देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः शासिताः समरे वीर त्वया वयमनिन्दिता
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो त्वमेव गतिरस्माकं त्राहि नश्शरणागतान्
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः आनयद्देवदेवस्य समीपममरानिह
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः